|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.159. अध्यायः 159
Mahabharata - Adi Parva - Chapter Topics
खनकेन सुरङ्गकरणम्॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-159-0x(931)(7248)
विदुरस्य सुहृत्कश्चित्खनकः कुशलः क्वचित्।
विविक्ते पाण्डवान्राजन्निदं वचनमब्रवीत्॥ 1-159-1(7249)
प्रहितो विदुरेणास्मि खनकः कुशलो ह्यहम्।
पाण्डवानां प्रियं कार्यमिति किं करवाणि वः॥ 1-159-2(7250)
प्रच्छन्नं विदुरेणोक्तं प्रियं यन्म्लेच्छभाषया।
त्वया च तत्तथेत्युक्तमेतद्विश्वासकारणम्॥ 1-159-3(7251)
कृष्णपक्षे चतुर्दश्यां रात्रावस्यां पुरोचनः।
भवनस्य तव द्वारि प्रदास्यति हुताशनम्॥ 1-159-4(7252)
मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः।
इति व्यवसितं तस्य धार्तराष्ट्रस्य दुर्मतेः॥ 1-159-5(7253)
वैशम्पायन उवाच। 1-159-6x(932)
उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः।
अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै॥ 1-159-6(7254)
शुचिमाप्तं प्रियं चैव सदा च दृढभक्तिकम्।
न विद्यते कवेः किंचिदविज्ञातं प्रयोजनम्॥ 1-159-7(7255)
यथा तस्य तथा नस्त्वं निर्विशेषा वयं त्वयि।
भवतश्च यथा तस्य पालयास्मान्यथा कविः॥ 1-159-8(7256)
इदं शरणमाग्नेयं मदर्थमिति मे मतिः।
पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात्॥ 1-159-9(7257)
स पापः कोशवांश्चैव ससहायश्च दुर्मतिः।
अस्मानपि च पापात्मा नित्यकालं प्रबाधते॥ 1-159-10(7258)
स भवान्भोक्षयत्वस्मान्यत्नेनास्माद्धुताशनात्।
अस्मास्विह हि दग्धेषु सकामः स्यात्सुयोधनः॥ 1-159-11(7259)
समृद्धमायुधागारमिदं तस्य दुरात्मनः।
वप्रान्तं निष्प्रतीकारमाश्रित्येदं कृतं महत्॥ 1-159-12(7260)
इदं तदशुभं नूनं तस्य कर्म चिकीर्षितम्।
प्रागेव विदुरो वेद तेनास्मानन्वबोधयत्॥ 1-159-13(7261)
सेयमापदनुप्राप्ता क्षत्ता यां दृष्टवान्पुरा।
पुरोचनस्याविदितानस्मांस्त्वं प्रतिमोचय॥ 1-159-14(7262)
वैशम्पायन उवाच। 1-159-15x(933)
स तथेति प्रतिश्रुत्य खनको यत्नमास्थितः।
परिखामुत्किरन्नाम चकार च महाबिलम्॥ 1-159-15(7263)
चक्रे च वेश्मनस्तस्य मध्ये नातिमहद्बिलम्।
कपाटयुक्तमज्ञातं समं भूम्याश्च भारत॥ 1-159-16(7264)
पुरोचनभयादेव व्यदधात्संवृतं मुखम्।
स तस्य तु गृहद्वारि वसत्यशुभधीः सदा।
तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप॥ 1-159-17(7265)
दिवा चरन्ति मृगयां पाण्डवेया वनाद्वनम्।
विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम्॥ 1-159-18(7266)
अतुष्टास्तुष्टवद्राजन्नूषुः परमविस्मिताः॥ 1-159-19(7267)
न चैनानन्वबुध्यन्त नरा नगरवासिनः।
अन्यत्र विदुरामात्यात्तस्मात्खनकसत्तमात्॥ ॥ 1-159-20(7268)
इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि ऊनषष्ट्यधिकशततमोऽध्यायः॥ 159 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-159-4 आर्द्रायां च पुरोचनः। भवनस्य निशि द्वारि इति ङ. पाठः॥ 1-159-7 कवेः सर्वज्ञस्य क्रान्तदर्शिनो वा॥ 1-159-8 यथा वयं तस्य तथा भवतश्च॥ 1-159-9 शरणं गृहम्॥ 1-159-12 वप्रान्तं प्राकारमूलम्। निष्प्रतीकारं बहिर्निर्गमनप्रकारशून्यम्॥ 1-159-14 अस्मांस्त्वं विप्रवासय इति ङ. पाठः॥ 1-159-15 परिखा प्राकारपरिधिभूतो गर्तस्ताम्। नाम प्रसिद्धण्। उत्किरन्परिखापरिष्कारव्याजेन बिलान्मृदमुत्किरन् बहिः क्षिपन् महाबिलं सुरङ्गाख्यं चकार॥ 1-159-16 नातिमहामुखं इति ङ. पाठः॥ ऊनषष्ट्यधिकशततमोऽध्यायः॥ 159 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|